Puranic Subject Indexपुराण विषय अनुक्रमणिका(क-कामधेनु)
home
ka-kandu
kanva-kanyaa
kanyaakumari-kapila
kapilaa-kambharaa
kayaadhu-karnikaara
karnotpalaa-kalaavati
kali-kalhodi
kavacha-kaaka
kaakabhushundi-kaamadhenu
kabandha
Non-clickable Page
Kapila
Project
करम्भ
सोमयज्ञेषु प्रकृतिभूत ज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. होत्रा प्रातरनुवाके शस्यमाने अग्नीत् सवनीयान् पुरोडाशान् निर्वपति । तत्र इन्द्राय एकादशकपालपुरोडाशं, हरिभ्यां धानाः, पूष्णे करम्भं हविर्निर्वपति । करम्भो नाम सक्तवो मन्थः। ‘आज्यादिना वा संयुतः करम्भ इत्याचक्षते' (आप० श्रौ० १२।४।१२) (तु०-का० श्रौ० ९।२।१५ विद्याधरः) । २. सवनीय हविर्धानाश्रपणात् पश्चात् कृष्णाजिनावधूननादि कृत्वा द्वितीयं भागं (भ्रष्टयवानां) पेषयित्वा नवे पात्रे तथैवाज्यमानीय जातान् सक्तूनोप्य मन्थन- शलाकया रज्ज्वादिना मथित्वा स्थाल्योष्ठलग्ना विप्रुषोऽन्तः क्षिप्त्वा ‘इन्द्राय त्वा' इति मन्त्रेणाभिमृश्य धानानामुत्तरतो भस्ममिश्रेष्वङ्गारेषु अधिश्रयति । अयं पदार्थ: करम्भ इत्युच्यते । द्र० श्रौ०प०नि० पृ० २६१-६२ । द्र० सवनीयपुरोडाशयाग-, सवनीयधानाश्रपण-, सवनीययागहविर्निवाप-। पं. पीताम्बरदत्त शास्त्री , श्रौतयज्ञप्रक्रिया – पदार्थानुक्रमकोषः, (राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५ई.)
पुराणेषु सार्वत्रिकरूपेण करम्भस्य उल्लेखः शकुनेः पुत्ररूपेण अस्ति। अयं संकेतमस्ति यत् मर्त्यस्तरे ये शकुनाः जायन्ते, ते करम्भाः भवन्ति। क - रम्भः करम्भः। यः विषयः कः मर्त्यस्तरं रेभयति, आलोड्यति, तत् करम्भः। पैप्पलादसंहिता
२.१
अनुसारेण अस्य विनियोजनं अधोदिशायाः विषस्य अपनयने भवति। तैत्तिरीयब्राह्मण
३.१.४.७
अनुसारेण करम्भस्य निर्वपणं आश्लेषा नक्षत्राय भवति।
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
इन्द्र प्रातर्जुषस्व नः ॥ऋ.
३.५२.१
॥
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥ऋ.
३.५२.७
॥
सोममन्य उपासदत्पातवे चम्वोः सुतम् ।
करम्भमन्य इच्छति ॥ऋ.
६.५७.२
॥
५,७ ४ होता यक्षद् इन्द्रम् हरिवाम् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ॥२४
५,७ ४ होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो माध्यंदिनस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपस् तृतीयस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थितम् जुषाणो वेतु होतर् यज । - ऋ. खिलानि
५.७.४.१-३
अरसं प्राच्यं विषमरसं यदुदीच्यम् ।
अथेदमधराच्यं करम्भेण वि कल्पते ।। १ ।।
करम्भं कृत्वा तिर्यं पीवस्याकमुदारथिम् ।
क्षुधा किल त्वा दुष्टनो यक्षिवां स न रूरुप: ।। पै.सं.
२.२
।।
आल्वन्तरुटं विषं विदारी करम्भो अरसं विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।पै.सं.
४.१९.४
।।
असौ य एष वीरको गृहंगृहं विचाकशत् ।
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्।।पै.सं.
४.२६.२
। ।
करम्भ ओषधे भव पीवो वृक्क उदारथि: ।
वातापे पीव इद्भव । पै.सं.
६.१६.१०
! !
आबयो अनाबयो रसस्त उग्र आबयो ।
आ ते करम्भमद् इमहि ।।पै.सं.
१९.५.७
।।
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः । करंभेण सजोषसः ॥ - मै.सं.
१.१०.२
पञ्च प्रातःसवने पुरोडाशाः, पुरोडाशः परिवापो धानाः करंभः पयस्या, सा पुरोडाशपङ्क्ति – मै.सं.
३.१०.५
पूषण्वान् करंभः ॥ इति, पशवो वै पूषा, पशुभिरेव सायुज्यमगच्छत् ।। - मै.सं.
३.१०.६
ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् । तानेताभिरेव देवताभिरुपानयन् । एताभिर्ह वै देवताभिर्द्विषन्तं भ्रातृव्यमुपनयति । - तै.ब्रा.
३.१.४.७
करम्बैर्जुहोति । विश्वेषां वा एतद्देवानाँ रूपम् । यत्करम्बाः । यत्करम्बैर्जुहोति - तै.ब्रा.
३.८.१४.४