Puranic Subject Indexपुराण विषय अनुक्रमणिका(क-कामधेनु)
home
ka-kandu
kanva-kanyaa
kanyaakumari-kapila
kapilaa-kambharaa
kayaadhu-karnikaara
karnotpalaa-kalaavati
kali-kalhodi
kavacha-kaaka
kaakabhushundi-kaamadhenu
kabandha
Non-clickable Page
Kapila
Kapila
भगवद्गीतायां
१०.२६
कथनमस्ति - गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः । नारदपुराणे
२.५२.१५
कथनमस्ति - सेनानीनां यथा स्कंदः सिद्धानां कपिलो यथा ।। । सिद्धेषु मध्ये कपिलः कथं श्रेष्ठः अस्ति, अस्मिन् संदर्भे पुराणेषु कपिलमुनेः चरित्रः चिन्तनीयः अस्ति। कपिलः कर्दमऋषेः एवं देवहूत्यायाः पुत्रः अस्ति। कर्दमशब्दस्य लौकिकार्थः पङ्कः अस्ति। भागवतपुराणे कथनमस्ति यत् यथा पङ्कतः पङ्कजः उत्पन्नः भवति, एवंप्रकारैव कर्दमतः कपिलः उत्पन्नः अस्ति। या देवहूतिरस्ति, सा केवलमेव कपिलं गर्भं स्वयोन्यां धारयति। ब्रह्माण्डपुराणे
२.३.७.३३५
कथनमस्ति - कपिलः पुण्डरीकश्च सुनामानौ रथन्तरात् । जातौ नाम्ना श्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ ॥ अत्र कथनमस्ति यत्
रथन्तरसामगानतः
कपिल-पुण्डरीकयोः हस्तिन्योः प्राकट्यं भवति। विभिन्नानां साम्नां गानतः विभिन्नानां हस्तीनां प्राकट्यं भवति। एते हस्तिनः दिशानां दिशापालाः नियुक्ताः भवन्ति। अयं कथनं संकेतं करोति यत् यत्र – यत्र कपिलशब्दः अस्ति, हस्ती अथवा कर्दम-पुत्र कपिलमुनिरूपेण, तत्र – तत्र रथन्तरसामः क्रियाशीलः अस्ति। जैमिनीयब्राह्मणे
1.296
कथनमस्ति –
यो वै बृहद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्। ऊर्ध्वा वै रथन्तरस्य देवहूतिर् अर्वाची बृहतः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्योर्ध्वम् इव प्रस्तौति तस्माद् अयम् ऊर्ध्वो लोक ऊर्ध्वो ऽयम् अग्निर् दीप्यत ऊर्ध्वा ओषधय ऊर्ध्वा वनस्पतयस् सर्वम् एवोर्ध्वम्। अथ यस्माद्
बृहतस्
स्तोभेन परिष्टुभ्यौ हो इत्य् अर्वाङ् प्रस्तौति तस्माद् असाव् अर्वाङ् लोको ऽर्वाङ् असाव् आदित्यस् तपत्य् अर्वाङ् चन्द्रमा अर्वाञ्चि नक्षत्राण्य् अर्वाची वृष्टिर् एति सर्वम् एवार्वाक्। स य एवम् एते बृद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्॥
अयं कथनं संकेतं ददाति यत् कपिलमुनेः या सामर्थ्यं अस्ति, तत् गुरुत्वाकर्षणस्य विपरीतदिशायां, ऊर्ध्व गमनस्य अस्ति। बृहत्साम्नः गानेन या सिद्धिः प्राप्ता भवति – पर्जन्यवृष्ट्याः – तस्यामुपरि कपिलस्य नियन्त्रणं नास्ति। अतएव, पुराणेषु कपिलमुनिः शिवजटातः गंगायाः अवतारणाय भगीरथादीन् जनान् प्रेरितं करोति।
याज्ञवल्क्यशिक्षा ग्रन्थे कथनमस्ति यत् य, र, ल, व अक्षराणां वर्णः कपिलवर्णः अस्ति। अन्यत्र, भागवतपुराण
३.१२.४७
आदिषु स्थानेषु एषां अक्षराणां संज्ञा अन्तस्था अस्ति - ऊष्माणमिन्द्रियाण्याहुः अन्तःस्था बलमात्मनः । अन्तःस्थअक्षरेभ्यः परे ये श, ष, स अक्षराः सन्ति, तेषां संज्ञा ऊष्माणाः अस्ति। लौकिकरूपेण प्रसिद्धमस्ति यत् एतेषां अक्षराणां उच्चारणे ऊष्मणः जननं भवति, अतएव तदनुसारेण तेषां ऊष्माणः संज्ञा। किन्तु, सूक्ष्मरूपेण स्थितिः गंभीरा अस्ति। य, र, ल, व ये अक्षराः सन्ति, ते मूलाधारतः अनाहतचक्र पर्यन्तं ये चक्राः सन्ति, तेषां बीजरूपाः सन्ति। ते ऊष्माशोषिणः अक्षराः सन्ति। अपि च, विभिन्नअक्षराणां ऊष्माशोषणस्य अथवा ऊष्मासर्जनस्य यः गुणमस्ति, तत्र ऊष्मणः प्रकृतिः अक्षरे – अक्षरे भिन्ना अस्ति(
ऊष्मा शब्दोपरि टिप्पणी
पठनीया अस्ति) । लौकिकरूपेण, या प्रकृतिः अस्ति, तस्मिन् ऊष्माजननस्य एव गुणं प्रधानः अस्ति, न ऊष्णाशोषणस्य। अतः यदा कपिलवर्णस्य संदर्भे ऊष्माशोषणस्य उल्लेखं भवति, सैव कपिलमुनेः श्रेष्ठत्वं अस्ति।
कपिलमुनेः पितृरूपेण कर्दमस्य उल्लेखमस्ति। लौकिकरूपेण, पङ्कस्य संज्ञा कर्दमः अस्ति। यत्र युद्धः भवति, पुराणेषु तस्मिन् क्षेत्रे रुधिरकर्दमस्य उल्लेखमस्ति। लक्ष्मीनारायणसंहितायां
४.७२.५९
कथनमस्ति - यावन्तः कर्दमाः स्वेदा दुर्गन्धा नरका हि ते । अत्र कथनमस्ति यत् देहस्य ये स्वेदाः, दुर्गन्धादयः सन्ति, ते कर्दमाः सन्ति। यदा ऊष्माशोषी प्रक्रिया बलवती भवति, तदा देहतः स्वेदादीनां लोपं भवति( आधुनिकचिकित्साविज्ञानानुसारेण स्वेदजनकानां छिद्राणां लोपनं व्याधिस्वरूपः अस्ति)। व्यावहारिकरूपेण ऊष्माशोषी प्रक्रियायाः प्राधान्यं केन प्रकारेण संभवमस्ति, अस्मिन् संदर्भे काकीमुद्रादीनां अभ्यासः उल्लेखनीयमस्ति।
कपिलमुनेः मातारूपेण पुराणेषु देवहूति, श्रुति, सिनीवाली अमावास्या आदीनां उल्लेखः अस्ति। लक्ष्मीनारायणसंहितायां
३.१३६.३७
उल्लेखमस्ति - अथ कर्दमपत्नी या सिनीवाली पुराऽभवत् । लक्ष्मीशान्तिव्रतं कृत्वा देवहूती ततोऽभवत् ।। व्यवहारे सिनीवाल्याः देवहूत्यां रूपान्तरणं केन प्रकारेण संभवमस्ति, अन्वेषणीयः।
पुराणेषु कपिलमुनेः उल्लेखं सनकादयः, ये स्मृतिसर्गतः सम्बद्धाः सन्ति, तस्मिन् वर्गे भवति। ऋग्वेदे केवलं
१०.२७.१६
मध्ये कपिलशब्दस्य अस्तित्वं अस्ति, यस्य भाष्ये सायणाचार्यः कपिलस्य गणना दशसंख्यकानां अंगिरसां मध्ये अन्तिमस्य रूपेण करोति। पुराणेषु अंगिरसानां ये नामधेयानि सन्ति, तेषु सत्यः अन्तिमः अङ्गिरसः अस्ति, न कपिलः। वेदमन्त्रेषु यत्र देवहूतिः शब्दः प्रकटयति, तत्र सत्या देवहूत्याः उल्लेखमस्ति (ऋ.
६.०६५.०५
,
१०.०६३.११
)। ऋग्वेदे
१०.०१८.०३
भद्रा देवहूत्याः उल्लेखमस्ति।
दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय ।
गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥ऋ.
१०.२७.१६
॥
"दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये "एकं मुख्यं "कपिलम् एतन्नामानं "तं प्रसिद्धमृषिम् । कीदृशम् । "समानं सदृशम् । केन । सामर्थ्यात् प्रजापतिना। "हिन्वन्ति अवशिष्टा अङ्गिरसः प्रेरयन्ति । किमर्थम् । "क्रतवे यज्ञादिजगत्प्रवर्तनकर्मणे । यद्वा । सम्यग्ज्ञानलक्षणप्रज्ञानाय । कीदृशाय । "पार्याय परिसमापयितव्याय प्रणेतव्याय वा । यज्ञादिकर्मोपदेशनायेत्यर्थः । "माता प्रकृत्याख्या च "वक्षणासु। वक्षणा इति नद्य उच्यन्ते । ताभिश्चात्रापो लक्ष्यन्ते । प्रकृतिस्थासु सूक्ष्मास्वप्सु "सुधितं सुहितम् । प्रजापतिना स्थापितमित्यर्थः । "अवेनन्तम् । वेनतिः कान्तिकर्मा । तत्र निवासमकामयमानं तादृशं प्रजापतेः "गर्भं "तुषयन्ती तुष्यन्ती सम्यग्ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती “बिभर्ति प्रजापतेर्नियोगाद्धारयति ।।(सा.भा.)
स्वराः शुक्लाः नानादैवत्याः । स्पर्शाः कृष्णाः । कपिला अन्तस्थाः । ऊष्माणोऽरुणाः । नीला यमाः । हरिता नासिक्याः । पीतोऽनुस्वारः । रक्तो जिह्वामूलीयः । पीत उपध्मानीयः । श्वेतो विसर्जनीयः । शबलो रङ्गः । नीलोऽनुनासिक्यः । - याज्ञव. शिक्षा
२.१.३
चत्वार्यन्तस्था यरलवाः कपिलवर्णा अग्निदैवत्याः
चत्वार्यूष्माणः शषसहा अरुणवर्णा आदित्यदैवत्याः – याज्ञवल्क्य शिक्षा
कापिले विशाखे - अथर्व परिशिष्ट
१.३.१
पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः ।
तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥
विश्रामोपनिषत् ५
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्ब्राह्मं पदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदमनामयम् । -
अथर्वशिरोपनिषत् ५
,
प्रणवोपनिषत्
सद्योजातात्पृथिवी । तस्याः स्यान्निवृत्तिः । तस्याः कपिलवर्णानन्दा । तद्गोमयेन विभूतिर्जाता । -
बृहज्जाबालोपनिषत् १